मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५४, ऋक् ३

संहिता

ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

पदपाठः

ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ ।
ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥

सायणभाष्यम्

प्रधनेषु। प्रकीर्नान्यस्मिन्धनानि भवन्तीति प्रधना सङ्ग्रामाः। तेषु शूरासः शौर्यवन्तो ये युध्यन्ते शत्रून्सम्प्रहरन्ति। ये च तनूत्यजः शरीरानांतत्रत्यक्तारो भवन्ति। ये वा ये च सहस्रदक्षिणाः सहस्र दक्षिनान्क्रतूननुष्थितवन्तः। तान्सर्वानेव त्वमपिगच्छ। येषूत्तमेषु लोकेशु ते निवसन्ति तं लोकं प्राप्नुहीत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२