मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १५४, ऋक् ५

संहिता

स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् ।
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥

पदपाठः

स॒हस्र॑ऽनीथाः । क॒वयः॑ । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् ।
ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒पः॒ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥

सायणभाष्यम्

सहस्रनीथाह् सहस्रनयनाः कवयः क्रान्तदर्शिनो य सूर्यममुमादित्यं गोपायन्ति रक्षन्ति तपस्वतपसा युक्तांस्तपोजांस्तपसः सकाशादेवोत्पन्नां स्तानृषीन् हे यम नियत त्वमपिगच्छा॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२