मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७०, ऋक् १

संहिता

वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥

पदपाठः

वि॒ऽभ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु॑ । आयुः॑ । दध॑त् । य॒ज्ञऽप॑तौ । अवि॑ऽह्रुतम् ।
वात॑ऽजूतः । यः । अ॒भि॒ऽरक्ष॑ति । त्मना॑ । प्र॒ऽजाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥

सायणभाष्यम्

विभ्राडिति चतुरृचमेकोनविंशं सूक्तं सूर्यपुत्रस्य विभ्राट्संज्ञकस्यार्षं सूर्यदेवत्यम्। आदौ तिस्रो जगत्यः। द्व्यष्टकद्विद्वादशकवत्यास्तारपङ्क्तिश्चतुर्थी। तथा चानुक्रान्तम्। विभ्राड्विभाट् सौर्यः सौर्यं जागतमास्तारपङ्क्त्यन्तमिति। विषुवति निष्केवल्य आद्यस्तृचः स्तोत्रियः। सूत्रितं च। विभ्राड् बृहत्पिबतु सोम्यं मधु नमो मित्रस्य वरुणस्य चक्षस इति स्तोत्रियानुरूपौ। आ. ८-९। इति। वाजपेयेऽतिरिक्तोक्थस्य विभ्राडित्येषा शस्त्रे याज्या। सूत्र्यते हि। विभ्राड् बृहत्पिबतु सोम्यं मध्विति याज्या तस्य गवां शतानाम् । आ. ९-९। इति॥

विभ्राड्विभ्राजमानो विशेषेण दीप्यमानः सूर्यो बृहन्महत्परिवृढं सोम्यं सोममयं मधु पिबतु। किं कुर्वन्। यज्ञपतौ यजमानेऽविह्रुतमकुटिलमायुर्दधत् कुर्वन्। यः सूर्यो वातजूतो वातेन महावायुना प्रेर्यमाणः संस्तनात्मना स्वयमेवाभिरक्षति सर्वं जगदभिपश्यन्पालयति। राशिचक्रस्य वायुप्रेर्यत्वात्सूर्यस्यापि तत्प्रेर्यत्वम्। स सूर्यः प्रजाः पुपोष। व्रुष्ट्यादिप्रदानेन पोषयति। पुरुधा बहुधा वि राजति। विशेषेण दीप्यते च॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८