मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७०, ऋक् २

संहिता

वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म॑न्दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तम् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥

पदपाठः

वि॒ऽभ्राट् । बृ॒हत् । सुऽभृ॑तम् । वा॒ज॒ऽसात॑मम् । धर्म॑न् । दि॒वः । ध॒रुणे॑ । स॒त्यम् । अर्पि॑तम् ।
अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒हन्ऽत॑मम् । ज्योतिः॑ । ज॒ज्ञे॒ । अ॒सु॒र॒ऽहा । स॒प॒त्न॒ऽहा ॥

सायणभाष्यम्

विभ्राड्विभ्राजमानं बृहत्प्रौढं सुभृतं सुपुष्टं वाजसातमं वाजस्यान्नस्य बलस्य वा दातृतमं धर्मन्धर्मणि वायुना धरयितव्ये दिवो द्युलोकस्य धरुणे धारके सूर्यमण्डलेऽर्पितं निक्शिप्तं सत्यमविनश्वरममित्रहामित्राणामप्रियाणां हन्तृ वृत्रहा वृत्राणामावृण्वतां हन्तृ दस्युहन्तमं दस्यूनामुपक्षयितॄणां हन्तृतममसुरहासुराणां क्षेप्तॄणां घातकं सपत्नहा सपत्नानां सहजशत्रूणामपि घातकमीदृग्भूतं ज्योतिः सौरं तेजो जज्ञे। प्रादुर्भवति॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८