मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७०, ऋक् ३

संहिता

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥

पदपाठः

इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् ।
वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥

सायणभाष्यम्

इदं सौरं तेजः श्रेष्ठं प्रशस्यतमं ज्योतिषामन्येषां ग्रहनक्षत्रादीनामपि ज्योतिः प्रकाशकम् अत एवोत्तममुत्कृष्टं विश्वजिद्विश्वस्य सर्वस्य जेतृ धनजिद्धनस्य च जेतृबृहत्प्रभूतमुच्यते। एवं गुणविशिष्टमिति सर्वैरभिधीयते। अपि च विश्वभ्राड्विश्वस्य प्रकाशयिता भ्राजो भ्राजमानो महि महान्सूर्यो दृशे दर्शनायोरुविस्तीर्णं सहस्त्तमसोऽभिभवित्रच्युतं च्युतिरहितमविनाशमोजस्तेजोरूपं बलं पप्रथे। विस्तारयति॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८