मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७३, ऋक् २

संहिता

इ॒हैवैधि॒ माप॑ च्योष्ठा॒ः पर्व॑त इ॒वावि॑चाचलिः ।
इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥

पदपाठः

इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठाः॒ । पर्व॑तःऽइव । अवि॑ऽचाचलिः ।
इन्द्रः॑ऽइव । इ॒ह । ध्रु॒वः । ति॒ष्ठ॒ । इ॒ह । रा॒ष्ट्रम् । ऊं॒ इति॑ । धा॒र॒य॒ ॥

सायणभाष्यम्

हे राजन् इहास्मिन्नेव राज्य एधि। स्वामित्त्वेन सर्वदा वर्तमानो भव। मापच्योष्ठाः। अपच्युतो मा भूः। मापगमः। पर्वत इव यथा पर्वतो नैश्चल्येनावतिष्ठते एवमचिचाचलिश्चलनरहितो भव। इन्द्र इव यथा स्वर्ग इन्द्रः एवमिह लोके त्वं ध्रुवस्तिष्ठ। स्थिरो भव। राष्ट्रस्य् राष्ट्रं चेह लोके धारय। स्वे स्वे कर्मण्यवस्थापय॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१