मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७३, ऋक् ३

संहिता

इ॒ममिन्द्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ ।
तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पति॑ः ॥

पदपाठः

इ॒मम् । इन्द्रः॑ । अ॒दी॒ध॒र॒त् । ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ ।
तस्मै॑ । सोमः॑ । अधि॑ । ब्र॒व॒त् । तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑णः । पतिः॑ ॥

सायणभाष्यम्

इममभिषिक्तं ध्रुवेण स्थिरेण हविषा तर्प्यमाण इन्द्रो ध्रुवं स्थिरमदीधरत्। धारयतु। सोमश्च तस्मै राज्ञेऽधि ब्रवत्। अधिब्रवीतु। मदीयोऽयमिति पक्शपातवचनं करोतु। तस्मा उ तस्मा एव ब्रह्मणस्पतिर्मन्त्रस्य पालको देवश्चाधिब्रवीतु॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१