मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७३, ऋक् ४

संहिता

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वास॒ः पर्व॑ता इ॒मे ।
ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥

पदपाठः

ध्रु॒वा । द्यौः । ध्रु॒वा । पृ॒थि॒वी । ध्रु॒वासः॑ । पर्व॑ताः । इ॒मे ।
ध्रु॒वम् । विश्व॑म् । इ॒दम् । जग॑त् । ध्रु॒वः । राजा॑ । वि॒शाम् । अ॒यम् ॥

सायणभाष्यम्

द्यौर्ध्रुवा स्थिरा भवति। पृथिवी च ध्रुवा स्थिरा भवति। इमे द्रुश्यमानाः पर्वता महीधराश्च ध्रुवासः स्थिराः। इदं विश्वं सर्वं जगद्ध्रुवं स्थिरं भवति। एवमेवायं विशां प्रजानां राजा स्वामी सन् ध्रुवः स्थिरो भवतु॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१