ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पति॑ः ।
ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
ध्रु॒वम् । ते॒ । राजा॑ । वरु॑णः । ध्रु॒वम् । दे॒वः । बृह॒स्पतिः॑ ।
ध्रु॒वम् । ते॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥
हे राजन् ते तव राष्ट्रं राजा राजमानो वरुणो ध्रुवं स्थिरं धारयतु। देवो दानदिगुणयुक्तो बृहस्पतिर्ध्रुवं धारयतु। इन्द्रश्चाग्निश्चोभावपि ते तव राष्ट्रम् ध्रुवं स्थिरं धारयताम्। इन्द्राग्न्योरुभयोरपेक्षया ध्रुवशब्दस्य द्विः प्रयोगः॥५॥