ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं॑ मृशामसि ।
अथो॑ त॒ इन्द्र॒ः केव॑ली॒र्विशो॑ बलि॒हृत॑स्करत् ॥
ध्रु॒वम् । ध्रु॒वेण॑ । ह॒विषा॑ । अ॒भि । सोम॑म् । मृ॒शा॒म॒सि॒ ।
अथो॒ इति॑ । ते॒ । इन्द्रः॑ । केव॑लीः । विशः॑ । ब॒लि॒ऽहृतः॑ । क॒र॒त् ॥
ध्रुवेण स्थिरेण हविषा पुरोडाशादिना युक्तं ध्रुवं स्थिरं सोममभिमृशामसि। अभिमृशामः। देवतामभिलक्ष्य यागार्थं वयमृत्विजः संस्पृशामः। अथो अथानन्तरमेवेन्द्रो विशः प्रजास्ते तवैव केवलीरसाधारणाः सतीर्बलिहृतः करस्य प्रदात्रीः करत्। करोतु॥६॥