मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७४, ऋक् २

संहिता

अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥

पदपाठः

अ॒भि॒ऽवृत्य॑ । स॒ऽपत्ना॑न् । अ॒भि । याः । नः॒ । अरा॑तयः ।
अ॒भि । पृ॒त॒न्यन्त॑म् । ति॒ष्ठ॒ । अ॒भि । यः । नः॒ । इ॒र॒स्यति॑ ॥

सायणभाष्यम्

हे राजन् सपत्नान् शत्रून् अभिवृत्य अभितो गमयित्वा नः अस्माकं याः अरातयः अदानशीलाः प्रजाः सन्ति त अपि अभि तिष्थ अभिभव। पृतन्यन्तं पृतनाः सेना आत्मन इच्छन्तं युयुत्सुं च अभि तिष्ठ। पृतनाशब्दात् क्यचि कव्यध्वरपृतनस्य इत्यन्तलोपः। यः च नः अस्मभ्यं इरस्यति ईर्ष्यति। इरस् तिरस् ईर्ष्यायां कण्ड्वादिः। तमपि अभि तिष्ठ। यद्वा। प्रकृतो ब्रह्मणस्पतिरेवात्रापि सम्बोध्यः॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२