मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७४, ऋक् ३

संहिता

अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृतत् ।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥

पदपाठः

अ॒भि । त्वा॒ । दे॒वः । स॒वि॒ता । अ॒भि । सोमः॑ । अ॒वी॒वृ॒त॒त् ।
अ॒भि । त्वा॒ । विश्वा॑ । भू॒तानि॑ । अ॒भि॒ऽव॒र्तः । यथा॑ । अस॑सि ॥

सायणभाष्यम्

हे राजन् देवो दानादिगुणयुक्तः सविता त्वा त्वामभ्यवीवृतत्। अभिवर्तयतु। अभिगमयतु राष्ट्रम्। सोमश्चाभिवर्तयतु। विश्वा विश्वानि सर्वाण्यपि भूतानि पृथिव्यादीनि त्वामभि वर्तयन्तु। यथा येन प्रकारेण त्वमभीवर्तोऽसि। अभितः सर्वत्र वर्तमानो भवसि। अस्तेश्छान्दसः शपो लुगभावः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२