मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७४, ऋक् ४

संहिता

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥

पदपाठः

येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।
इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्नः । किल॑ । अ॒भु॒व॒म् ॥

सायणभाष्यम्

येन हविषास्माभिर्दत्तेन माद्यन्निन्द्रः कृत्वी वृत्रवधादेः कर्मणः कर्ता भवत् द्युम्नी। द्युम्नं द्योततेर्यशो वान्नं वा। तद्वान् अत एवोत्तम उत्कृष्टतमश्चाभवत् तदिदं हविर्हे देवाः अक्रि। अकारि। यद्वा। अहमकार्षम्। अत एवाहमसपत्नः किलाभुवम्। शत्रुरहितोऽप्यभवं खलु॥४॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२