मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १७४, ऋक् ५

संहिता

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।
यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥

पदपाठः

अ॒स॒प॒त्नः । स॒प॒त्न॒ऽहा । अ॒भिऽरा॑ष्ट्रः । वि॒ऽस॒स॒हिः ।
यथा॑ । अ॒हम् । ए॒षाम् । भू॒ताना॑म् । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥

सायणभाष्यम्

सपत्नहा सपत्नानां शत्रूणां हन्ता अत एवासपत्नः शत्रुरहितोऽहमभूवम्। अभिराष्ट्रोऽभिगतराष्ट्रः प्राप्तराज्यः सन् विषासहिः शत्रूणां विशेषेणाभिभविता चाभूवम्। यथा येन प्रकारेणाहमेषां दृश्यमानानां सर्वेषां भूतानां प्राणिनां जनस्य च सेवकस्यामत्यादेश्च विराजानि यथेश्वरो भवानि तथा सपत्नहा विषासहिश्चा भूवमित्यर्थः॥५॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२