मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८५, ऋक् २

संहिता

न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ ।
ईशे॑ रि॒पुर॒घशं॑सः ॥

पदपाठः

न॒हि । तेषा॑म् । अ॒मा । च॒न । न । अध्व॑ऽसु । वा॒र॒णेषु॑ ।
ईशे॑ । रि॒पुः । अ॒घऽशं॑सः ॥

सायणभाष्यम्

अमेति तृहनाम। अम चन गृहेष्वपि तेषां वरुनमित्रार्यम्णां तदनुगृहीतानां स्तोतॄणां वाघशंसोऽघमनर्थमाशंसमानो रिपुः शत्रुर्न हीशे। न खलु हिंसितुमीष्टे। लोपस्त आत्मनेपदेष्विति तलोपः। अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते। तथाध्वसु मार्गेषु वारणेषु यत्र पुरुषा निवार्यन्ते तेषु च स्थानेषु शत्रुर्निवारयितुं नेष्टे॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३