मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १८५, ऋक् ३

संहिता

यस्मै॑ पु॒त्रासो॒ अदि॑ते॒ः प्र जी॒वसे॒ मर्त्या॑य ।
ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥

पदपाठः

यस्मै॑ । पु॒त्रासः॑ । अदि॑तेः । प्र । जी॒वसे॑ । मर्त्या॑य ।
ज्योतिः॑ । यच्छ॑न्ति । अज॑स्रम् ॥

सायणभाष्यम्

अदितेरदीनाया देवमातुः पुत्रासः पुत्रा मित्रादयो यस्मै मर्त्याय मनुष्याय स्तोत्रेऽजस्रमविच्छिन्नं ज्योतिस्तेजो जीवसे जीवितुं प्रयच्छन्ति तस्य शत्रुर्नेश्वर इत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३