मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९०, ऋक् १

संहिता

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥

पदपाठः

ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ ।
ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥

सायणभाष्यम्

ऋतमिति तृचमेकोनचत्वारिंशं सूक्तं मधुच्छन्दसः पुत्रस्याघमर्षनस्यार्षमानुष्टुभम्। रात्र्यादीनां भावानां सृष्ट्यादिप्रतिपादकत्वात्तादृग्रूप एवार्थो देवता। तथा चानुक्रान्तम्। ऋतं माधुच्छन्दसोऽघमर्षणो भाववृत्तमानुष्टुभं त्विति। लिङ्गाद्विनियोगोऽवगन्तव्यः॥

ऋतमिति सत्यनाम। ऋतं मानसं यथार्थ सङ्कल्पनं सत्यं वाचिकं यथार्थभाषणम्। चकाराभ्यामन्यदपि शास्त्रीयं धर्मजातं समुच्चीयते। तत्सर्वमभीद्धादभितप्ताद्ब्रह्मना पुरा सृष्ट्यर्थं कृतात्तपसोऽधि। अध्युपर्यर्थे। उपर्यजायत। उपपद्यत। तपस्तप्त्वेदं सर्वमसृजत। तै. आ. ८-६। इति श्रुतेः। तपश्चात्र स्रष्टव्यपर्यालोचनलक्षणम्। यस्य ज्ञानमयं तप। मुं १-१-९। इति श्रुत्यन्तरात्। अभिपुर्वादिन्धेः कर्मनि निष्ठा। श्वीदितो निष्ठायामितीट् प्रतिषेधः। गतिरन्त्नत्र इति गतेः प्रकृतिस्वरत्वम्। स्वरितो वानुदात्ते पदादावित्येक्दादेशः स्वर्यते। यद्वा। अभीद्धातभितः प्रकाशमानात्परमात्मनो मायाधिष्ठानरूपापादानभूतादृतम् सत्यं चाजायत। जनिकर्तुः प्रकृतिः। पा. १-४-३०। इति प्रकृतेम्पादानसंज्ञा। ततस्तस्मादेवेश्वाराद्रात्री। उपलक्शनमेतदह्नोऽपि। अहश्च रात्रिश्चाजायत। रात्रेश्चाजसाविति ङीप्। ततस्तस्मादेवेश्वरादर्णवोऽर्णसोदकेन युक्तः समुद्रश्चाजायत। समुद्रशब्दोऽन्तरिक्षोदध्योः साधारन इत्यभिमतार्थस्य प्रकाशनायार्णवशब्देन विशेष्यते। अर्णसः सलोपश्च। का. ५-२-१०९-३। इति मत्वर्थीयो वप्रत्ययः सलोपश्च॥१॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८