मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९०, ऋक् २

संहिता

स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥

पदपाठः

स॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । सं॒व॒त्स॒रः । अ॒जा॒य॒त॒ ।
अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥

सायणभाष्यम्

अर्णवात्समुद्रात्सृष्टादध्यूर्ध्वं संवत्सरः संवत्सरोपलक्षितः सर्वः कालोऽजायत। श्रूयते हि। सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि कलामुहूर्ताः काष्ठाश्च। तै. आ. १०-१-२। इति। स चेश्वरोऽहोरात्राण्य्तदुपलक्षितानि सर्वाणि भूतानि विदधत् कुर्वन् सृजन्। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। ततः समासे कृदुत्तरपदप्रकृतिस्वरत्वम्। मिषतो निमिषादियुक्तस्य विश्वस्य सर्वस्य प्राणिजातस्य वशी स्वामी भूत्वा वर्तते॥२॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८