मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १९०, ऋक् ३

संहिता

सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥

पदपाठः

सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् ।
दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥

सायणभाष्यम्

सूर्याचन्द्रमसौ कालस्य ध्वजभूतौ दिवम् च पृथिवीं चान्तरिक्शम् च इत्थं त्रिभूवनं स्वः। स्वः शब्दः सुखवाची। दिवो विशेषनम्। सुखरूपां दिवम्। तदेतत्सर्वं धाता विधाता यथा पूर्वं पूर्विस्मिन्कालेऽकल्पयत् सृष्टवान् तथैवागामिन्यपि कल्पे कल्पयिश्यतीत्यर्थः॥३॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८