मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११, ऋक् ५

संहिता

त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् ।
त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥

पदपाठः

त्वम् । व॒लस्य॑ । गोऽम॑तः । अप॑ । अ॒वः॒ । अ॒द्रि॒ऽवः॒ । बिल॑म् ।
त्वाम् । दे॒वाः । अबि॑भ्युषः । तु॒ज्यमा॑नासः । आ॒वि॒षुः॒ ॥

सायणभाष्यम्

वलनामकः कश्चिदसुरो देवसंबंधिनीर्गा अपहृत्य कस्मिंश्चिद्बिले गोपितवान् । तदानीमिंदस्तद्बिलं स्वसैन्येन समावृत्य तस्माद्बिलाद्गा निःसारयामास । तदिदमुपाख्यानमिंद्रो वलस्य बिलमपौर्णोत् । तै सं २-१-५-१ । इत्यादिब्राह्मणेषु मंत्रांतरेषु च प्रसिद्धम् । तदेतद्धृधि निधायायं मंत्रः प्रवर्तते ॥ हे अद्रिवो वज्रयुक्तेंद्र त्वं गोमतो वलस्य गोभिर्युक्तस्य वलनामकस्यासुरस्य संबंधि बिलमपावः । स्वसैन्यमुखेनापावृतवानसि । तदानीं तुज्यमानासो वलेन हिंस्यमाना देवा अभिभ्युषस्त्वदीयरक्षया वलादभीताः संतस्त्वामाविषुः । प्राप्तवंतः ॥ अप । निपातत्वादाद्युदात्तः । अवः । वृञ् वरणे । लङ् । सिप् । इतश्च लोपः । स्वादिभ्यः श्नुः । तस्य बहुलं छंदसीति लुक् । गुणो रपरत्वं हल्ङ्यादिलोपः । विसर्जनीयः अडागमः । अद्रिवः । अद्रिरस्यास्तीति मतुप् । छंदसीर इति षत्वम् । संबोधव उगिदचामिति नुम् । हल्ङ्यादिसंयोगांतलोपौ । मतुवसो रुः संबुद्धौ छंदसि पा ८-३-१ । इति रुत्वम् । बिलम् । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वम् । अभिभ्युषः । ञिभी भये । लिट् । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे । क्वसुश्चेति लिटः क्वसुरादेशः क्रादिनियमात्प्राप्त इट् वस्वेकाजाध्वसामिति नियमान्निवर्तते । जसि सर्वनामस्थानेऽपि व्यत्ययेन भत्वाद्वसोः संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां चेति षत्वम् । अचि श्नुधात्वित्यादिना (पा ६-४-७७) प्राप्तमियङादेशं बाधित्वा एरनेकाच इति यणादेशः । नञ् समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तुज्यमानासः । तुजेहिंसार्थात्परस्य कर्मणि लटः स्थाने शानच् । सार्वधातु के यक् (पा ३-१-६७) इति यक् । तस्माददुपदेशादुत्तरस्य लसार्वधातुकस्यानुदात्तत्वम् । यक एव प्रत्यय स्वरः शिष्यते । आविषुः । अव रक्षणादिषु । अस्माद्गत्यर्थाल्लुङो झिः । तस्य सिजभ्यस्तविदिभ्यश्च (पा ३-४-१०९) इति जुस् । सिच इडागमः । आडजादीनाम् (पा ६-४-७२) इत्याडागमः । आदेशप्रत्यययोरिति षत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१