त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः ।
श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ॥
त्वम् । अ॒ग्ने॒ । मन॑वे । द्याम् । अ॒वा॒श॒यः॒ । पु॒रू॒रव॑से । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः ।
श्वा॒त्रेण॑ । यत् । पि॒त्रोः । मुच्य॑से । परि॑ । आ । त्वा॒ । पूर्व॑म् । अ॒न॒य॒न् । आ । अप॑रम् । पुन॒रिति॑ ॥
हे अग्ने त्वं मनवे मनोरनुग्रहार्थं द्यां द्युलोकमवाशयः । शब्दितवानसि । पुण्यकर्मभिः । पुण्य कर्मभिः साध्यो द्युलोक इति प्रकटतवानसि । सुकृते तवपरिचरणं कुर्वते पुरूरवस एतन्नामकस्य राज्ञोऽनुग्रहार्थं सुकृत्तरोऽतिशयेन शोभनफलकार्यभूः । यद्यदा पित्रोररण्योः श्वात्रेण क्षिप्रमथनेन परि मुच्यसे परितो मुक्तो भवसि । उत्पद्यस इत्यर्थः । तदानीं त्वा अरण्योरुत्पन्नं त्वां पूर्वं वेदेः पूर्वदेशमानयान् । आहवनीयत्वेन स्थापितवंतः । पुनः पश्चादपरं पश्चिमदेशमानयन् । गार्हपत्यरूपेण प्रापितवंतः । आहवनीयकर्मानुष्ठानादूर्ध्वं गार्हपत्यरूपेण धारितवंत इत्यर्थः ॥ अवाशयः । वाशृ शब्दे । पुरूरवसे । पुरु रौतीति पुरूरवाः । रु शब्दे । अस्मादौणादिकेऽसुनि पुरसि च पुरूरवाः (उ ४-१३१) इति पूर्वपदस्य दीर्घो निपात्यते । सुकृते । सुकर्मपापमंत्रपुण्येषु कृञः (पा ३-२-८९) इति क्विप् । ततस्तुक् । पित्रोः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । मुच्यसे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वम् । यद्यपि सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरण्येभ्य इति वचनाद्विकरणस्वरः सति शिष्टोऽपि लसार्वधातुकस्वरस्य बाधको न भवति तथापि धातुस्वरं बाधत एव धातुस्वरं श्नास्वर इत्युक्तत्वात् । अतो यक एव स्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वं ॥ ४ ॥