त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्य॑ः ।
य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥
त्वम् । अ॒ग्ने॒ । वृ॒ष॒भः । पु॒ष्टि॒ऽवर्ध॑नः । उद्य॑तऽस्रुचे । भ॒व॒सि॒ । श्र॒वाय्यः॑ ।
यः । आऽहु॑तिम् । परि॑ । वेद॑ । वष॑ट्ऽकृतिम् । एक॑ऽआयुः । अग्ने॑ । विशः॑ । आ॒ऽविवा॑ससि ॥
हे अग्ने त्वं वृषभः कामानां वर्षिता पुष्टिवर्धनो यजमानस्य धनादिपोषाभिवृद्धिहेतुः उद्यतस्रुच उद्धृतया स्रुचा युक्ताय यजमानाय तदनुग्रहार्थं श्रवाय्यो मंत्रैः श्रवणीयो भवसि । यो यजमानो वषट्कृतिं वषट्कारयुक्तामाहुतिं परि वेद परितो जानाति । समर्पयतीत्यर्थः । एकायुर्मुख्यान्नस्त्वमग्रे प्रथमं तं यजमानं विशस्तदनुकूलाः प्रजा आविवाससि । सर्वतः प्रकाशयसि ॥ पुष्टिवर्धनः । वृधु वृद्धौ । अस्माणिजंतान्नंद्यादित्वात् ल्युः । लित्स्वरेणोत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेण स एव शिष्यते । उद्यतस्रुचे । यम उपरमे । अस्मादुत्पूर्वान्निष्ठेति क्तप्रत्यय अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उद्यता स्रुग्येनेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेद । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ ३२ ॥ ५ ॥