त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे ।
यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ॥
त्वम् । अ॒ग्ने॒ । यज्य॑वे । पा॒युः । अन्त॑रः । अ॒नि॒ष॒ङ्गाय॑ । च॒तुः॒ऽअ॒क्षः । इ॒ध्य॒से॒ ।
यः । रा॒तऽह॑व्यः । अ॒वृ॒काय॑ । धाय॑से । की॒रेः । चि॒त् । मन्त्र॑म् । मन॑सा । व॒नोषि॑ । तम् ॥
हे अग्ने त्वं यज्ववे यज्योर्यजमानस्य पायुः पालकः । अंतरः समीपवर्ती सन् अनिषंगाय रक्षोभिरसंबद्धाय यज्ञाय चतुरक्षो दिक्चतुष्टयेऽपींद्रियस्थानीयज्वालायुक्त इध्यसे । दीप्यसे । अवृकायाहिंसकाय धायसे पोषकाय तुभ्यं रातहव्यो दत्तहविष्को यो यजमानोऽस्ति कीरेश्चित्स्तोतुरेव सतस्तस्य संबंधिनं मंत्रं त्वदीयस्तोत्ररूपं मनसा त्वदीयेन चित्तेन वनोषि । याचसि ॥ यज्यवे । यजिमनिशुंधीत्यादिना (उ ३-२०) यजतेर्युप्रत्ययः । पायुः । कृवापाजीत्यादिना । उण् । आतो युक् चिण् कृतोः (पा ७-३-३३) इति युगागमः । अनिषंगाय । षन् ज संगे । न विद्यते निषंगोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । चतुरक्ष । चत्वार्यक्षीणि ज्वालारूपाणि यस्यासौ चतुरक्षः बहुव्रीहौ सक्थ्यक्ष्णोः (पा ५-४-११३) इति समासांतः षच् प्रत्ययः । चित इत्यंतोदात्तत्वम् । धायसे । वहिहाधाञ् भ्यश्चंदसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युगागमः । कीरेः । कृत संशब्दने । अस्माण्यंतादच इरितीप्रत्यये णिलोपे धातोरंत्यलोपश्छांदसः । मंत्रम् । मत्रि गुप्तभाषणे । पचाद्यचि वृषादिषु पाठादाद्युदात्तत्वम् । वनोषि । वनु याचने । तनादिकृञ् भ्य उः । प्रत्ययस्वरः ॥ १३ ॥