नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च ।
इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
न । अ॒स्मै॒ । वि॒ऽद्युत् । न । त॒न्य॒तुः । सि॒से॒ध॒ । न । याम् । मिह॑म् । अकि॑रत् । ह्रा॒दुनि॑म् । च॒ ।
इन्द्रः॑ । च॒ । यत् । यु॒यु॒धाते॒ इति॑ । अहिः॑ । च॒ । उ॒त । अ॒प॒रीभ्यः॑ । म॒घऽवा॑ । वि । जि॒ग्ये॒ ॥
इंद्रं निषेद्धुं वृत्रो यान्विद्युदादीन्मायया निर्मितवान् ते सर्वेऽप्येनं निषेद्धुमशक्ताः । सोऽयमर्थोऽनेन मंत्रेणोच्यते । अस्मै इंद्रार्थं निर्मिता विद्युन्न सिषेध । इंद्र न प्राप्नोत् । तथा तन्य तुर्गर्जनं यां मिहं सेचनं यां वृष्टिमकिरत् वृत्रो विक्षिप्तवान् सापि वृष्टिर्न सिषेध । ह्रादुनिं चाशनिमपि यां वृत्रः प्रयुक्तवान् सापि न सिषेध । इंद्रश्चाहिश्चेंद्रवृत्रावुभावपि यद्यदा युयुधाते युद्धं कृतवंतौ । तदानीं विद्युदादयो न प्राप्ता इति पूर्वत्रान्वयः । उतापि च मघवा धनवानिंद्रोऽपरीभ्योऽपराभ्योऽन्यासामपि वृत्रनिर्मितानां मायानां सकाशाद्वि जिग्ये । विशेषेण जितवान् ॥ सिषेध । षिधु गत्याम् । मिहम् । मिह सेचने । मेहति सिंचतीति मिट् वृष्टिः । क्विप्चेति क्विप् । अकिरत् । कृ विक्षेपे । तुदादिभ्यः शः । ऋत इद्धातोरितीत्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । युयुधाते । युधि संप्रहारे । लिट प्रत्ययस्वरः । जिग्ये । सन् लिटोर्जेः (पा ७-३-५७) इत्यभ्यासादुत्तरस्य जकारस्य कुत्वं ॥ १३ ॥