आव॒ः शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् ।
ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
आवः॑ । शम॑म् । वृ॒ष॒भम् । तुग्र्या॑सु । क्षे॒त्र॒ऽजे॒षे । म॒घ॒ऽव॒न् । श्वित्र्य॑म् । गाम् ।
ज्योक् । चि॒त् । अत्र॑ । त॒स्थि॒ऽवांसः॑ । अ॒क्र॒न् । श॒त्रु॒ऽय॒ताम् । अध॑रा । वेद॑ना । अ॒क॒रित्य॑कः ॥
हे मघवन् धनवन्निंद्र श्वित्र्यं श्वित्रायाः पुत्रं पूर्वोक्तं पुरुषमावः । रक्षितवानसि । किमर्थम् । क्षेत्रजेषे शत्रुभिः सह युद्धवेलायां क्षेत्रप्राप्त्यर्थम् । कीदृशम् । शमं त्वदीयपरिपालनेन चित्तव्याकुलतां परित्यज्य शांतं वृषभं गुणैः श्रेष्ठं तुग्र्यासु गां जलेषु गतम् । मग्नमित्यर्थः । तुग्र्या बुर्बुरमित्युदकनामसु पठितत्वात् । अत्रास्माभिः सह युद्धे ज्योक् चित् चिरकालमपि तस्थिवांसोऽवस्थिताः संतोऽक्रन् । ये वैरिणः शत्रुत्वमकुर्वन् शत्रूयतां शत्रूनात्मन इच्छतां तेषामधरा वेदना निकृष्टानि दुःखानि त्वमकः । कुरु ॥ तुग्रशब्दोंऽतरिक्षवचनः । तत्र भवास्तुग्रियाः तुग्राद्घन् (पा ४-४-११५) इति घन् । तस्येयादेशः । इकारलोपश्छांदसः । नित्त्वादाद्युदात्तत्वम् । क्षेत्रजेषे । जेषृ णेषृ एषृ प्रेषृ गतौ । अस्मात्संपदादिलक्षणः क्विप् । क्षेत्रस्य जेट् क्षेत्रचेट् । समासांतोदात्तत्वम् । अंतोदात्तादात्तरपदादित्यादिना (पा ६-१-१६९) विभक्तेरुदात्तत्वम् । श्वित्र्यम् । श्वित्रायां भवः । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । तस्थिवांसः । तिष्ठतेः क्वसुः वस्वेकाजाद्घसामितीडागमः । अक्रन् । करोतेर्लुङि मंत्रे घसेत्यादिना च्लेर्लुक् । शत्रूयताम् । शत्रूनात्मन इच्छंतीति शत्रूयंतः । सुपआत्मनः क्यजिति क्यच् । तदंताच्छतृ । तस्य लसार्वधातुकानुदात्तत्व एकादेशस्वरेणोदात्तत्वम् । तस्य च पूर्वत्रासिद्धत्वं नेष्यते । पा ८-२-६-१ । इत्युक्तत्वाच्छत्रंतमंतोदात्तत्वमिति शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । अधरा वेदनेत्युभयत्र शेश्छंदसि बहुलमिति शेर्लोपः । अकः । करोतेर्लुङि मंत्रे घसेत्यादिना चेर्लुक् गुणः ॥ ३ ॥ १५ ॥