मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३४, ऋक् ८

संहिता

त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् ।
ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥

पदपाठः

त्रिः । अ॒श्वि॒ना॒ । सिन्धु॑ऽभिः । स॒प्तमा॑तृऽभिः । त्रयः॑ । आ॒ऽहा॒वाः । त्रे॒धा । ह॒विः । कृ॒तम् ।
ति॒स्रः । पृ॒थि॒वीः । उ॒परि॑ । प्र॒वा । दि॒वः । नाक॑म् । र॒क्षे॒थे॒ इति॑ । द्युऽभिः॑ । अ॒क्तुऽभिः॑ । हि॒तम् ॥

सायणभाष्यम्

हे अश्विना सप्तमातृभिः । इमं मे गंगॆ । ऋग्वे १०-७५-५ । इत्यादि मंत्रोक्ताः सप्तसंख्याका गंगाद्या नद्यो मातर उत्पादिका योषां जलविशेषाणां ते सप्तमातरः । तैः सिंधुभिः स्यंदनस्वभावैर्जलैर्वसतीवरीनामभिस्त्रिः सोमाभिषवः कृत इति शेषः । तथा चान्यत्र ब्राह्मणे समाम्नातम् । अष्टौ कृत्वोऽभिषुणोति एकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयमिति । तै सं ६-४-५-१ । आहावा यथोक्तजलयुक्तस्य सोमस्याधारभूताः कूपसदृशास्त्रयस्त्रिसंख्याका द्रोणकलशा धवनीयपूतभृदाख्या निष्पन्ना इति शेषः । तेषु त्रिषु पात्रविशेषॆषु त्रेधा त्रिभिः प्रकारैः सवनत्रयगतैर्हविष्कृतम् । सोमाख्यं हविः संपादितं द्रव्यं वर्तत इति शेषः । तिस्रः पृथिवीरुपरि त्रिभ्यः पृथिव्यादिलोकेभ्य ऊर्ध्वं प्रवा प्रवंतौ गच्छंतौ युवां दिवो नाकं द्युलोकसंबंधिनमादित्य रक्षेथे । कीदृशं नाकम् । द्युभिरहोभिरक्तुभी रात्रिभिश्च हितं स्थापितम् । अहनि सूर्य उदेति रात्रावस्तं गच्छतीत्येवमहोरात्राभ्यां सूर्यो व्यवस्थाप्यत इत्यर्थः ॥ सप्तमातृभिः बहुव्रीहिस्वरः । आहावाः । निपानमाहावः (पा ३-३-७४) इत्यङ् पूर्वाद्ध्वयतेरप्प्रत्ययः संप्रसारणं वृद्धिश्च निपातनात् । थाथादिनोत्तरपदांतोदात्तत्वम् । प्रवा । च्युङ् प्रुङ् गतौ । प्रवेते गच्छत इतिप्रवौ । पचाद्यच् । सुपां सुलुगित्याकारः । नाकम् । नास्मिन्नकमस्तीति नाकः । नभ्राण्न - पादित्यादिना नञः प्रकृति भावः । द्युभिः । ऊडिदमित्यादिना प्राप्तस्य विभक्तुस्यदात्त दिवो झल् । पा ६-१-१८२ इति प्रतिषेधः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः