उदु॒ त्ये सू॒नवो॒ गिर॒ः काष्ठा॒ अज्मे॑ष्वत्नत ।
वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥
उत् । ऊं॒ इति॑ । त्ये । सू॒नवः॑ । गिरः॑ । काष्ठाः॑ । अज्मे॑षु । अ॒त्न॒त॒ ।
वा॒श्राः । अ॒भि॒ऽज्ञु । यात॑वे ॥
त्ये पूर्वप्रकृता गिरः सूनवो वाच उत्पादका मरुतः । वायुवो हि ताल्वोष्ठादिषु संचरंतो वाचमुत्पादयंति । अज्मेषु स्वकीयेषु गमनेषु सत्सु काष्ठा अपः । आपोऽपि काष्ठा उच्यंते क्रांत्वा स्थिता भवंति (नि २-१५) इति यास्कः । उदु उत्कर्षेणैवात्नत । अतनिषत । विस्तारितवंतः । उदकं विस्तार्य तत्पानार्थं वाश्रा हंभारवोपेता गा अभिज्ञु जान्वाभिमुखं यथा भवति तथा यातवे गंतुं प्रेरितवंत इति शेषः ॥ सूनवः । षूंष्रेरणे । सुवः कित् (उ ३-३५) इति नुप्रत्ययः । कित्त्वाद्गुणाभावः । अत्नत । तनु विस्तारे । लङि झस्यादादेशे बहुलं छंदसीति विकरणस्य लुक् । तनिपत्योश्छंदसि (पा ६-४-९९) इत्युपधालोपः । अडागमः । अभिज्ञु । अभिगते जानुनी यस्य तदभिज्जु । प्रसंभ्यां जानुनोर्ज्ञुः (पा ५-४-१२९) इति व्यत्ययेनाभिपूर्वस्यापि जानुशब्दस्य ज्ञु शब्दादेशः समासांतः । यातवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ १३ ॥ १० ॥