यं बा॒हुते॑व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं॑ रि॒षः ।
अरि॑ष्ट॒ः सर्व॑ एधते ॥
यम् । बा॒हुता॑ऽइव । पिप्र॑ति । पान्ति॑ । मर्त्य॑म् । रि॒षः ।
अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥
यं यजमानं पिप्रति वरुणादयो देवा धनैः पूरयंति । तत्र दृष्टांतः । बाहुतेव स्वकीये बाहुवर्गोऽपेक्षितं धनमानीय यथा पूरयति तद्वत् । तथा यं मर्त्यं मनुष्यं यजमानं रिषो हिंसकात् पांति रक्षंति स सर्वो यजमानोऽरिष्टः केनाप्यहिंसितः सन् एधते । वर्धते । बाहुतेव । बाहुता बाहुत्वम् । भाववाचिनानेन शब्देन बाहवस्तदाश्रया लक्ष्यंते । यद्वा । समूहार्थे तल्प्रत्ययो द्रष्टव्यः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । पिप्रति । पृ पालनपूरणयोः । पृ इत्येके । जुहोत्यादित्वात् श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । पांति । तिङः परत्वात्पादादित्पाद्वा निघाताभावः । रिषः । रिष हिंसायां क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । अरिष्टः । रिष हिंसायाम् । एकाच इतीट् प्रतिषेधः । व्रश्चादिना षत्वं नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥