यो नः॑ पूषन्न॒घो वृको॑ दु॒ःशेव॑ आ॒दिदे॑शति ।
अप॑ स्म॒ तं प॒थो ज॑हि ॥
यः । नः॒ । पू॒ष॒न् । अ॒घः । वृकः॑ । दुः॒शेवः॑ । आ॒ऽदिदे॑शति ।
अप॑ । स्म॒ । तम् । प॒थः । ज॒हि॒ ॥
हे पूषन् यः प्रतिपक्षी नोऽस्मानादिदेशति अनेन मार्गेण गंतव्यमित्येवमाज्ञापयति । कीदृशः । अघ आहंता वृकोऽस्मदीयस्य धनस्यादाता । अपहर्तेत्यर्थः । दुःशेवः सेवितुं दुःशको दुष्टसुखो वा । तं तादृशं प्रतिपक्षिणं पथो मार्गादपजहि स्म । अवश्यमपाकुरु ॥ वृकः । कुक वृक आदाने । वर्कत इति वृकः इगुपधलक्षणः कः । वृषादित्वादाद्युदात्तत्वम् । दुःशेवः । दुष्टं शेवं यस्यासौ दुःशेवः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । यद्वा । दुःखेन सेव्यत इति दुःशेवः । वर्णव्यत्ययेन सकारस्य तकारः । ईषद्दुःसुष्विति खल् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आदिदेशति । दिश अतिसर्जने । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीति वक्तव्यं पा ७-३-८७-२ । इति वचनान्नाभ्यस्तस्याचीति लघूपधगुणप्रतिषेधाभावः । पथः उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं ॥ २ ॥