मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् ४

संहिता

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोच॒नम् ॥

पदपाठः

त॒रणिः॑ । वि॒श्वऽद॑र्शतः । ज्यो॒तिः॒ऽकृत् । अ॒सि॒ । सू॒र्य॒ ।
विश्व॑म् । आ । भा॒सि॒ । रो॒च॒नम् ॥

सायणभाष्यम्

चातुर्मास्येषु शुनासीर्ये पर्वण्यस्ति सौर्य एककपालः । तस्य तरणिरित्येषानुवाक्या । तथा च सूत्रितम् । तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः (आ २-२०) इति । तथातिमूर्तिनाम्नेकाहे कृष्ण पक्षे सौरीष्विः कर्तव्या । तस्यामप्येषानुवाक्या । अतिमूर्तिनेति खंडे सूत्रितम् । नवो भवति जायमान स्तरणिर्विश्वदर्शतः (आ ९-८) इति

हे सूर्य त्वं तरणिस्तरिता अन्येन गंतुमशक्यस्य महतोऽध्वनो गंतासि । तथा च स्मर्यते । योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु त इति । यद्वा । उपासकानां रोगात्तारयितासि । आरोग्यं भास्करादिच्छेदिति स्मरणात् । तथा विश्वदर्शतो विश्वृः सर्वैः प्राणिभिर्दर्शनीयः । आदित्यदर्शनस्य चंडालादिदर्शनजनितपापनिर्हरणहेतुत्वात् । तथा चापस्तंबः । दर्शने ज्योतिषां दर्शनमिति । यद्वा । विश्वं सकलं भूतजातं दर्शतं द्रष्टव्यं प्रकाश्यं येन स तथोक्तः । तथा ज्योतिष्कृत् ज्योतिषः प्रकाशस्य कर्ता । सर्वस्य वस्तुनः प्रकाशयितेत्यर्थः । यद्वा । चंद्रादीनां रात्रौ प्रकाशयिता । रात्रौ ह्यब्मयेषु चंद्रादिबिंबेषु सूर्यकिरणाः प्रतिफलिताः संतोऽंधकारं निवारयंति यथा द्वारस्थदर्पणोपरि निपतिताः सूर्यरश्मयो गृहांतर्गतं तमो निवारयिंति तद्वदित्यर्थः । यस्मादेवं तस्माद्विश्वं व्याप्तं रोचनं रोचमानमंतरिक्षमा समंताद्भासि । प्रकाशयसि ॥ यद्वा । हे सूर्य अंतर्यामितया सर्वस्य प्रेरक परमात्मन् तरणिः संसाराब्धेस्तारकोऽसि । यस्मात्त्वं विश्वदर्शतो विश्वैः सर्वैर्मुमुक्षुभिर्दर्शतो द्रष्टव्यः । साक्षात्कर्तव्य इत्यर्थः । अधिष्ठानसाक्षात्कारे ह्यारोपितं निवर्तते । ज्योतिष्कृत् जोतिषः सूर्यादेः कर्ता । तथा चाम्नायते । चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत । तै आ ३-१२-६ । इति । ईदृशस्त्वं चिद्रूपतया विश्वं सर्वं दृश्यजातं रोचनं रोचमानं दीप्यमानं यथा भवति तथा भासि । प्रकाशयसि । चैतन्यस्फुरणे हि सर्वं जगद्दृश्यते । तथा चाम्नायते । तमेव भांतमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति । क उ ५-१५ । इति । तरणिः । तृ प्ल वनतरणयोः । अस्मादंतर्भावितण्यर्थादर्तिसृभृधृधम्यश्यवितृभ्योऽनिरित्य निप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । ज्योतिः करोतीति ज्योतिष्कृत् । क्विप्चेति क्विप् । नित्यं समासेऽनुत्तरपदस्थस्येति विसर्जनीयस्य षत्वम् । भासि । भा दीप्तौ । अंतर्भावितण्यर्थाल्लट्यदादित्याच्छपो लुक् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः