मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् ५

संहिता

प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् ।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥

पदपाठः

प्र॒त्यङ् । दे॒वाना॑म् । विशः॑ । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु॑षान् ।
प्र॒त्यङ् । विश्व॑म् । स्वः॑ । दृ॒शे ॥

सायणभाष्यम्

हे सूर्य त्वं देवानां विशो मरुन्नामकान्देवान् । मरुतो वै देवानां विशः । तै सं २-२-५-७ । इति श्रुत्यंतरात् । तान्मरुत्संज्ञ कान्देवान् प्रत्यङ्ङुदेषि । तान्प्रतिगच्छन्नुदयं प्राप्नोषि । तेषामभिमुखं यथा भवति तथेत्यर्थः । तथा मानुषान्मनुष्यान् प्रत्यङ्ङुदेषि । तेऽपि यथास्मदभिमुख एव सूर्य उदेतीति मन्यंते । तथा विश्वं व्याप्तं स्वः स्वर्लोकं दृशे द्रष्टुं प्रत्यङ्ङुदेषि । यथा स्वर्लोकवासिनो जनाः स्वस्वाभिमुख्येन पश्यंति तथोदेषीत्यर्थः । एतदुक्तं भवति लोकत्रयवर्तिनो जनाः सर्वेऽपि स्वस्वाभिमुख्येन सूर्यं पश्यंतीति । तथा चाम्नायते । तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति ॥ प्रत्यङ् । प्रत्यंचतीति प्रत्यङ् । अन्चु गतिपूजनयोः । ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । उगिदचामिति नुम् । हल्ङ्यादिसंयोगांतलोपौ । संयोगांतलोपस्यासिद्धत्वादुपधादीर्घन लोपयोरभावः । क्विन्प्रत्ययस्य कुः (पा ८-२-६२) इति कुत्वम् । अनिगंतोऽंचतौ (पा ६-२-५२) इत्यनिगंत इति पर्युदासात्पूर्वपदप्रकृतिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । एषि । इण् गतौ । सिप्यदादित्वाच्छपो लुक् । आदेशप्रत्यययोरिति षत्वम् । स्वः । सुपूर्वादर्तेर्विच् । गुणे यणादेशः । न्यङ् स्वरौ स्वरितौ चेति स्वरितत्वम् । दृशे । दृशिर् प्रेक्षण इत्यस्माद्दृशे विख्ये चेति तुमर्थे निपातितः ॥ ७ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः