वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑ः ।
पश्य॒ञ्जन्मा॑नि सूर्य ॥
वि । द्याम् । ए॒षि॒ । रजः॑ । पृ॒थु । अहा॑ । मिमा॑नः । अ॒क्तुऽभिः॑ ।
पश्य॑न् । जन्मा॑नि । सू॒र्य॒ ॥
हे सूर्य त्वं पृथु विस्तीर्णं रजो लोकम् । लोका रजांस्युच्यंत इति यास्कः (नि ४-१९) कं लोकम् । द्यामंतरिक्षलोकम् । व्येषि । विशेषण गच्छसि । किं कुर्वन् । अहाहान्यक्तुभी रात्रिभिः सह मिमान उत्पादयन् । आदित्यगत्यधीनत्वादहोरात्रविभागस्य । तथा जन्मानि जननवंति भूतजातानि पश्यन् प्रकाशयन् । रजस्पृथ्वित्यत्र च्छंदसि वाप्राम्रेडितयोः (पा ८-३-४९) इति विसर्जनीयस्य सत्वम् । अहा । शेश्छंदसि बहुलमिति शेर्लोपः । मिमानः । माङ् माने । जौहोत्यादिकः । शानचि श्लौ द्विर्भावे भृ ञामिदित्यभ्यासस्येत्वम् । श्नाभ्यस्तयोरात इत्याकारलोपः । अभ्यस्तानामादिरित्यभ्यस्तस्याद्युदात्तत्वम् । जन्मानि । जनी प्रादुर्भावे । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥