उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ॥
उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे॑न । सह॑सा । स॒ह ।
द्वि॒षन्त॑म् । मह्य॑म् । र॒न्धय॑न् । मो इति॑ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ॥
अयं पुरोवर्त्यादित्योऽदितेः पुत्रः सूर्यो विश्वेन सदसा सर्वेण जलेन सहोदगात् । उदयं प्राप्तवान् । किं कुर्वन् । मह्यं द्विषंतं रंधयन् । ममोपद्रवकारिणं हिंसन् । अपि चाहं द्विषतेऽनिष्टकारिणे रोगाय मो रधम् । नैव हिंसां करोमि । सूर्य एव अस्मदनिष्टकारिणं रोगं विनाशयत्वित्यर्थः ॥ अगात् एतेर्लुङीणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । आदित्यः । दित्यदित्यादित्येत्यपत्यार्थे प्राग्दीव्यतीयो ण्यप्रत्ययः । रंधयन् । रध हिंसासंराद्ध्योः । ण्यंताल्लटः शतृ । रधिजभोरचि (पा ७-१-६१) इति णौ धातोर्नुमागमः । मो । मा उ निपातद्वयसमुदायो मैवेत्यस्यार्थे । ओत् (पा १-१-१५) इति प्रगृहृत्वे प्लुतप्रगृह्या अचीति प्रकृतिभावः । द्विषते । शतुरनुम इति विभक्तेरुदात्तत्वम् । रधम् । रधेर्लुङि पुषादित्वात् च्लेरङादेशः । रधिजभोरचीति धातोर्नुम् । अनिदितामित्यनुषंगलोपः । न माङ्योग इत्यडभावः ॥ १३ ॥