शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
शची॑ऽवः । इ॒न्द्र॒ । पु॒रु॒ऽकृ॒त् । द्यु॒म॒त्ऽत॒म॒ । तव॑ । इत् । इ॒दम् । अ॒भितः॑ । चे॒कि॒ते॒ । वसु॑ ।
अतः॑ । स॒म्ऽगृभ्य॑ । अ॒भि॒ऽभू॒ते॒ । आ । भ॒र॒ । मा । त्वा॒ऽय॒तः । ज॒रि॒तुः । काम॑म् । ऊ॒न॒यीः॒ ॥
शचीवः । शचीति प्रज्ञानाम । हे इंद्र शचीवः प्रज्ञावान् पुरुकृत् प्रभूतस्य वृत्रवधादेः कर्तः द्युमत्तमातिशयेन दीप्तिमन् अभितः सर्वत्र वर्तमानं वसु धनं यदस्ति तदिदम् । तवेत् तवैव स्वभूतमिति चेकिते भृशमस्माभिर्ज्ञायते । अतः कारणाद्धनं संगृभ्य सम्यक् गृहीत्वाभिभूते शत्रूणामभिभवितराभर । आस्मभ्यमाहर । देहीत्यर्थः । त्वायतस्त्वामात्मन इच्छतो जरितुः स्तोतुः काममभिलाषं मोनयीः । परिहीनं मा कार्षीः । पूरयेत्यर्थः ॥ शचीवः । मतुवसो रुरिति रुत्वम् । षाष्ठिकमामंत्रिताद्युदात्तत्वम् । इतरेष्वाष्वमिकं सर्वानुदात्तत्वम् । न चामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वम् । नामंत्रिते समनाधिकरण इति निषेधात् । चेकिते । कित ज्ञाने । अस्माद्यङंताद्वर्तमाने लिट्यमंत्रे (पा ३-१-५३) इति निषेधादाम्प्रत्ययाभावे सति लिट आर्धधातुकत्वादतोलोपयलोपौ । संगृभ्य आभरेत्युभयत्र हैग्रहोर्भश्छंदसि पा ८-२-३२-१ । इति भत्वम् । त्वायतः । त्वामात्मन इच्छति । सुप आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । छांदसमात्वम् । क्यजंताल्लटः शतृ । तस्यादापदेशाल्लसार्वधातुक स्वरेणानुदात्तस्यैकादेशस्वरेणोदात्तत्वम् । एकादेशस्वरोऽंतरंगः सिद्धो भवतीति वक्तव्यम् । पा ८-२-६-१ । इति वचनात्तस्य सिद्धत्वे सति शतुरनुम इत्यजादिविभक्तेरुदात्तत्वम् । कामम् । कमु कांतावित्यस्माद्भावे घञ् । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । ऊनयीः । ऊन परिहाणे । चुरादिः । लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङादेशस्य नोनयतिध्वनयतीत्यादिना (पा ३-१-५१) प्रतिषेधः । ह्म्यंतक्षणेति (पा ७-२-५) सिचि वृद्धिप्रतिषेधः ॥ ३ ॥