हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।
शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥
हिर॑ण्यऽकेशः । रज॑सः । वि॒ऽसा॒रे । अहिः॑ । धुनिः॑ । वातः॑ऽइव । ध्रजी॑मान् ।
शुचि॑ऽभ्राजाः । उ॒षसः॑ । नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥
हिरण्यकेश इति द्वादशर्चं षष्ठं सूक्तम् । रहूगणपुत्रस्य गोतमस्यार्षम् । अत्रानुक्रम्यते । हिरण्यकेशो द्वादशाद्यौ तृचौ त्रैष्टुभौष्णिहौ पूर्वेऽग्नये वा मध्यमायेति । पूर्वत्र गायत्रं त्वित्युक्तद्वादिदमपि गायत्रं सूक्तम् । एतावांस्तु विशेषः । आद्यस्तृचस्त्रैष्टुभः । द्वितीयस्त्वौष्णिहः । प्रथमतृचस्य मध्यमस्थानो वैद्युतोऽग्निः शुद्धाग्निर्वा देवता । शिष्टा नवर्चः केवलाग्नि देवताकाः ॥ प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छंदस्याश्विनशस्त्रे चाद्यस्तृचः । सूत्रितं च । हिरण्यकेश इति शिस्रोऽपश्यमस्य महत इति सूक्ते (आ ४-१३) इति ॥ कारीर्यामग्नेर्धामच्छदो हिरण्यकेश इति द्वे ऋचौ याज्यानुवाक्ये । सूत्रितं च । हिरण्यकेशो रजसो विसार इति द्वे त्वं त्या चिदच्युता धामंते विश्वं भुवनमधि श्रितमिति वा । अ २-१३ । इति ॥
हिरण्यकेशो हितरमणीयाः केशस्थानीया ज्वाला यस्य स तथोक्तः सुवर्णवद्रोचमानज्वालो वा अहिरागत्य हंता मेघानां धुनिस्तेषां कंपयिता वात इव वायुरिव ध्रजीमान् शीघ्रगतियुक्तः एवंभूतो वैद्युतोऽग्नी रजस उदकस्य विसारे विसरणे मेघान्निर्गमने निमित्तभूते सति शुचिभ्राजाः शोभनदीप्तिः सन् मेघाज्जलानि निर्गमयितुं जानाति । उषस उषोदेवता नवेदाः । न विदंति इति नवेदाः । मेघादुदकस्य निःसारणमग्निरेव जानाति उषसस्तु न जानंतीत्यर्थः । अज्ञाने दृष्टांतः । यशस्वतीरन्न युक्ता अन्नवत्योऽपस्युवोऽपः कर्मात्मन इच्छंत्य सत्या अवितथारंभा न । एवंभूताः प्रजा इव । अत्रोषसामज्ञानेनाग्निः प्रशस्यते न तु ता निंद्यंते । न हि निंदा निंद्यं निंदितुं अपि तु स्तुत्यं स्तोतुमिति न्यायात् ॥ ध्रजीमान् । ध्रज गतौ । इन्सर्वधातुभ्य इति भाव इन्प्रत्ययः । ततो मतुप् । तस्य पित्त्वा दनुदात्तत्व इनो नित्त्वात्प्रातिपदिकस्याद्युदात्तत्वम् । नवेदाः । नञ्पूर्वाद्वेत्तेः पचाद्यच् । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । अपस्युवः । अपस्शब्दात्सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । तन्वादीनां छंदसि बहुलमुपसंख्यानम् । पा ६-४-७७-१ । इत्युवङ् ॥ १ ॥