यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः ।
अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥
यत् । ई॒म् । ऋ॒तस्य॑ । पय॑सा । पिया॑नः । नय॑न् । ऋ॒तस्य॑ । प॒थिऽभिः॑ । रजि॑ष्ठैः ।
अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । त्वच॑म् । पृ॒ञ्च॒न्ति॒ । उप॑रस्य । योनौ॑ ॥
यदीं यदायमग्निर्ऋतस्योदकस्य पयसा पयोवत्सारभूतेन रसेन पियानो जगदाप्यायनं कुर्वन् आप्यायितं च जगदृतस्योदकस्य संबंधिभी रजिष्ठैर्ऋजुतमैः पथिभिर्मार्गैः स्नानपानादिभिर्नयन् प्रापयन्वर्तते तदानीमर्यमा मित्रो वरुणश्च परिज्मा परितो गंता मरुद्गणश्चोपरस्य मेघस्य योनौ वृष्ट्युदकोत्पत्तिस्थाने त्वचं पृंचंति । वृष्ट्युदकस्याच्छादकं प्रदेशं स्वकीयैरायुधैः संयोजयंति । उद्भाटयंतीति यावत् ॥ पियानः । स्फायी ओप्यायी वृद्धौ । बहुलं छंदसीति शपो लुक् । धातोर्व्यत्ययेन पीभावः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । रजिष्ठैः । ऋजुशब्दादिष्ठनि विभाषर्जोश्छंदसि (पा ६-४-१६२) इत्यृकारस्य रत्वम् । टीरिति टलोपः । पृंचंति । पृची संपर्के । रौधादिकः ॥ ३ ॥