अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
अक्ष॑न् । अमी॑मदन्त । हि । अव॑ । प्रि॒याः । अ॒धू॒ष॒त॒ ।
अस्तो॑षत । स्वऽभा॑नवः । विप्राः॑ । नवि॑ष्ठया । म॒ती । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
हे इंद्र त्वया दत्तान्यन्नान्यक्षन् । यजमाना भुक्तवंतः । भुक्त्वा चामीमदंत हि । तृप्ताश्चासन् । प्रियाः स्वकीयास्तनूरवाधूषत । अकंपयन् । अतिशयितरसास्वादनेन वक्तुमशक्नुवंतः शरीराण्यकंपयन् । तदनंतरं स्वभानवः स्वायत्तदीप्तयो विप्रा मेधाविनस्ते नविष्ठया नवितृतमया मती मत्या स्तुत्याऽस्तोषत । अस्तुवन् । अन्यत्पूर्ववद्योज्यं ॥ अक्षन् । अदेर्लुङि लुङ् सनोर्घस्लृ (पा २-४-३७) इति घस्लादेशः । मंत्रे घसेत्यादिना च्लेर्लुक् । गमहनेत्यादिनोपधालोपः । खरि चेति चर्त्वम् । शासिवसिघसीनां चेति षत्वम् । अडागम उदात्तः । अमीमदंत । मद तृप्तियोगे । चुरादिरात्मनेपदी । लुङि च्लेश्चङि णिलोपोपधाह्रस्वत्वद्विर्भावसन्वद्भावेत्वदीर्घाः । अधूषत । धूञ् कंपने । लुङि सिचि व्यत्ययेन गुणाभावः । यद्वा । छंदस्युभयथेति सिचः सार्वधातुकत्वेन ङित्त्वात् क्ङिति चेति प्रतिषेधः । अथवा धू विधूनने । तौदादिकः । कुटादिः । अस्मात्कर्मणि लुङि गाङ् कुटादिभ्य इति सिचो ङित्त्वाद्गुणाभावः नविष्ठया । णुस्तुतौ । करणभूताया अपि स्तुतेः स्वव्यापारे कर्तृत्वात्तृच् । तदंतात् तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्स्विति तृलोपः । मती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । मंत्रे वृषेषपचमनेति क्तिन उदात्तत्वं ॥ २ ॥