यदि॑न्द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः ।
अत॒ः परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । यदु॑षु । तु॒र्वशे॑षु । यत् । द्रु॒ह्युषु॑ । अनु॑षु । पू॒रुषु॑ । स्थः ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥
अत्र यदुष्टित्यादीनि पंच मनुष्यनामानि । हे इंद्राग्नी यद्यदि यदुषु नियतेषु परेषामहिंसकेषु मनुष्येषु स्थः भवथः वर्तेथे । यदि वा तुर्वशेषु हिंसकेषु मनुष्येषु वर्तेथे । यद्यदि वा द्रुह्युषु द्रोहं परेषामुपद्रवमिच्छत्सु मनुष्येषु वर्तेथे । यदि वानुषु प्राणत्सु सफलैः प्राणैर्युक्तेषु ज्ञातृष्वनुष्ठातृषु मनुष्येषु । अन्येषां हि प्राणा निफ्फला ज्ञानहीनत्वादनुष्ठानाभावाच्च । तेषु यदि भवधः । तथा पूरुषु कामैः पूरयितव्येष्वन्येषु स्तोतृजनेषु यदि भवथः । अतः सर्वस्मात्स्थानात् । हे कामाभिवर्षकाविंद्राग्नी आगच्छतम् । अनंतरमभिषुतं सोमं पिबतं ॥ यदुषु । यम । उपरमे । नियम्यंत इंद्रियाण्येभिरिति यदवः । यमेर्दुक् चेति कुप्रत्ययो दुगागमश्च । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तुर्वशेषु । तुर्वी हिंसार्थः । औणादिकोऽशप्रत्ययः । द्रुह्युषु । द्रुह जिघांसायाम् । संपदादिलक्षणो भावे क्विप् । द्रुहं परेषामिच्छंति । छंदसि परेच्छायामपीति क्यच् । क्याच्छंदसीत्युप्रत्ययः । अनुषु अन प्राणने । अणश्च (उ १-८) इति विधीयमान उप्रत्ययो बहुलवचनादस्मादपि भवति । निदित्यनुवृत्तेराद्युदात्तत्वम् । पूरुषु । पूरी आप्यायने । पूर्यंत इति पूरवः । औणादिक उप्रत्ययः ॥ ८ ॥