चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
चित्रमिति षडृचं दशमं सूक्तं कुत्सस्यार्षं त्रैष्टुभं सूर्यदेवताकम् । तथा चानुक्रांतम् । चित्रं षट् सौर्यमिति ॥ आश्विनशस्त्रे सूर्योदयादूर्ध्वं सौर्याणि सूक्तानि शंसनीयानि । तत्रेदं सूक्तं शंसनीयम् । सूत्रितं च । चित्रं देवानां नमो मित्रस्य (आ ६-५) इति ॥ आदितस्तिस्र ऋचः सौर्यस्य पशोर्वपापुरोडाशहविषां क्रमेणानुवाक्याः । ततो द्वे वपापुरोडाशयोर्याज्ये । तथा च सूत्रितम् । चित्रं देवानामुदगादनीकमिति पंच शं नो भव चक्षसा शं नो अह्ना । आ । ३-८ । इति ॥ अतिमूर्तिनाम्न्येकाहे शुनासीर्ये पर्वणि च सूर्यस्य हविषश्चित्रं देवानामित्येषा याज्या । सूत्रितं च तरणिर्विश्वदर्शतश्चित्रं देवानामुदगादनीकमिति याज्यानुवाक्याः (आ ९-८) इति ॥ १५ ॥
देवानाम् । दीव्यंतीति देवा रश्मयः । तेषां देवजनानामेव वानीकं तेजःसमूहरूपं चित्रमाश्चर्यकरं सूर्यस्य मंडलमुदगात् । उदयाचलं प्राप्तमासीत् । कीदृशम् । मित्रस्य वरुणस्याग्नेश्च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां चक्षुः प्रकाशकम् । चक्षुरिंद्रियस्थानीयं वा । उदयं प्राप्य च द्यावापृथिवी दिवं पृथिवीमंतरिक्षं चाप्राः । स्वकीयेन तेजसा आ समंतादपूरयत् । ईदृग्भूतमंडलांतर्वती सूर्येंऽतर्यामितया सर्वस्य प्रेरकः परमात्मा जगतो जंगमस्य तस्थुषः स्थावरस्य चात्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजंगमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्रम् । तदनन्यत्वमारंभणशब्दादिभ्य इति । वेदां २-१-१४ । इति ॥ यद्वा । स्थावरजंगमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत्पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते । योऽसौतपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेतीति । तै आ १-१४-१ । इति ॥ आप्राः । प्रा पूरणे । लङि पुरुषव्यत्ययः । अदादित्वाच्छपो लुक् । जगतः । गमेर्द्वे च । पा ३-३-१७८-३ । इति क्विब्द्विर्वचनं च । गमः क्वामित्यनुनासिकलोपः । तस्थुषः । तिष्ठतेर्लिटः क्वसुः । द्विर्वचने शपूर्वाः खयः । षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । आतो लोप इट चेत्याकारलोपः शासिवसीति षत्वं ॥ १ ॥