सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥
सूर्यः॑ । दे॒वीम् । उ॒षस॑म् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥
सूर्यो देविं दानादिगुणयुक्तां रोचमानं दीप्यमानामुषसं पश्चादभ्येति । उषसः प्रादुर्भावानंतरं तामभिलक्ष्य गच्छति । तत्र दृष्टांतः । मर्यो न योषाम् । यथा कश्चिन्मनुष्यः शोभनावयवां गच्छंतीं युवतिं स्त्रियं सततमनुगच्छति तद्वत् । यत्र यस्यामुषसि जातायां देवयंतो देवं द्योतमानं सूर्यं यष्टुमिच्छंतो नरो यज्ञस्य नेतारो यजमाना युगानि । युगशब्दः कालवाची । तेन च तत्र कर्तव्यानि कर्माणि लक्ष्यंते यथा दर्शपूर्णमासाविति । अग्निहोत्रादीनि कर्माणि वितन्वते । विस्तार यंति । यद्वा । देवयंतो देवयागार्थं धनमात्मन इच्छंतो यजमानपुरुषा युगानि हलावयवभूतानि कर्षणाय वितन्वते प्रसारयंति । तामुषसमनुगच्छतीत्यर्थः । एवंविधं भद्रं कल्याणां सूर्यं प्रति भद्राय कल्याणरूपाय कर्मफलाय स्तुम इति शेषः । यद्वा । देवयंतो देवकामा यजमाना युगानि युग्मानि भूत्वा पत्नीभिः सहिताः संतो भद्रं कल्याणमग्नि होत्रादिकं कर्म भद्राय तत्पलार्थं प्रति प्रत्येकं यस्यामुषसि प्रवृत्तायां वितन्वते । विस्तारयंति ॥ मर्यः । मृङ् प्राणत्यागे । छंदसि निष्टर्क्येत्यादौ यत्प्रत्ययांतो निपात्यते । ऋतोऽनाव इत्याद्युदात्तत्वम् । युगानि । युजेः कमणि घञ् । युगशब्दः कालविशेषे रथाद्युपकरणे च । का ६-१-१६० । इत्युञ्छादिषु पाठाद्गुणाभावोंऽतोदात्तत्वं च । वितन्वते । तनु विस्तारे । तनादिकृञ्भ्य उः । सहेति योगविभागात्तिङोपसर्गस्य समासे सति समासस्येत्यंतोदात्तत्वं ॥ २ ॥