भ॒द्रा अश्वा॑ ह॒रित॒ः सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः ।
न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थु॒ः परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥
भ॒द्राः । अश्वाः॑ । ह॒रितः॑ । सूर्य॑स्य । चि॒त्राः । एत॑ऽग्वाः । अ॒नु॒ऽमाद्या॑सः ।
न॒म॒स्यन्तः॑ । दि॒वः । आ । पृ॒ष्ठम् । अ॒स्थुः॒ । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । स॒द्यः ॥
भद्राः कल्याणाः । अश्वा एतग्वा इत्येतदुभयमश्वनाम । तत्रैकं क्रियापरं योजनीयम् । अश्वास्तुरगा व्यापनशीला वा हरितो हर्तारश्चित्रा विचित्रावयवाअनुमाद्यासोऽनुक्रमेण सर्वे स्तुत्या मादनीयाः एवंभूताः सूर्यास्यैतग्वा अश्वाः । यद्वा । एतं गंतव्यं मार्गं गंतारोऽश्वाः । एतं शबलवर्णं वा प्राप्नुवंतोऽश्वाः । नमस्यंतोऽस्माभिर्नमस्यमानाः संतो दिवोंऽतरिक्षस्य पृष्ठमुपरिप्रदेशं पूर्वभागलक्षणमास्थुः । आतिष्ठंति । प्राप्नुवंति । यद्वा । हरितो रसहरणशीला रश्मयो भद्रादिलक्षणविशिष्टा दिवः पृष्ठं नभःस्थलमातिष्ठंति । आस्थाय च द्यावापृथिवी द्यावापृथिव्यौ सद्यस्तदानीमेवैकेनाह्ना परि यंति । परितो गच्छंति । व्याप्नुवंतीत्यर्थः ॥ अश्वाः । अशू व्याप्तौ । अशिप्रुषीत्यादिना क्विन् । एतग्वाः । इण् गतौ । असिहसीत्यादिना कर्मणि तन्प्रत्ययः । गमेरौणादिको भावे स्वप्रत्ययः । एतमेतव्यं प्रति ग्वो गमनं येषां ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अनुमाद्यासः । मदि स्तुतौ । अस्माण्ण्यंतादचो यत् । यतोऽनाव इत्याद्युदात्तत्वम् । नमस्यंतः । नमोवरिव इति पूजार्थे क्यच् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । अस्थुः । तिष्ठतेश्छांदसो वर्तमाने लुङ् । गातिस्थेति सिचो लुक् । अत इति झेर्जुस् ॥ ३ ॥