मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११५, ऋक् ४

संहिता

तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥

पदपाठः

तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तोः॑ । विऽत॑तम् । सम् । ज॒भा॒र॒ ।
य॒दा । इत् । अयु॑क्त । ह॒रितः॑ । स॒धऽस्था॑त् । आत् । रात्री॑ । वासः॑ । त॒नु॒ते॒ । सि॒मस्मै॑ ॥

सायणभाष्यम्

सूर्यस्य सर्वप्रेरकस्यादित्यस्य तद्देवत्वमीश्वरत्वम् । स्वातंत्र्यमिति यावत् । महित्वम् । महत्त्वं माहात्म्यं च तदेव । तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यत्कर्तोः । कर्मनामैतत् । प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य कर्मणो मध्या मध्येऽपरिसमाप्त एव तस्मिन्कर्मणि विततं विस्तीर्णं स्वकीयं रश्मिजालमस्तं गच्छन् सूर्यः सं जभार अस्माल्लोकात्स्वात्मन्युपसंहरति । कर्मकरश्च प्रवृत्तमपरिसमाप्तमेव विसृजत्यस्तं यंतं सूर्यं दृष्ट्वा । ईदृशं स्वातंत्रं महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति । न कस्यापि । सूर्य एवेदृशं स्वातंत्र्यं महिमानं चावगाहते । अपि च । इदित्यवधारणे । यदेद्यस्मिन्नेव काले हरितो रसहरणशीलान्स्वरश्मीन् हरिद्वर्णानश्वान्वा सधस्थात्सहस्थानादस्मात्पार्थिवाल्लोकादादायायुक्त । अन्यत्र संयुक्तान्करोति । यद्वा । युजिः केवलोऽपि विपूर्वो द्रष्टव्यः । यदैवासौ स्म्वरश्मीनश्वान्वा सधस्थात् । सह तिष्ठंत्यस्मिन्निति सधस्थो रथः । तस्मादयुक्त । अमुंचत् । आत् अनंतरमेव रात्री निशा वास आच्छादयितृ तमः सिमस्मै । सिमशब्दः । सर्वशब्दपर्यायः सप्तम्यर्थे चतुर्थीः । सर्वस्मिन् लोके तनुते । विस्तारयति । यद्वा । वासो वासरमहः । तत्सर्वस्मादस्माल्लोकादपनीय रात्री तमस्तनुते । अत्र निरुक्तम् । तत्सूर्यस्य देवत्वम् । तन्महित्वम् । मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते यदासावयुक्त हरणानादित्यरश्मीन्हरितोऽश्वानिति वाथ रात्री वासस्तनुते सिमस्मै वासरमहरवयुवती सर्वस्मात् (नि ४-११) इति ॥ महित्वम् । मह पूजायां औणादिक इन्प्रत्ययः । तस्य भावस्त्वतलौ (पा ५-१-११९) मध्या । मध्यशब्दात्सप्तम्येकवचनस्य सुपां सुलुगिति डादेशः । कर्तोः । करोतेरौणादिकस्तुन्प्रत्ययः । विततम् । विपूर्वात्तनोतेः कर्मणि निष्ठा । उदित्त्वेन क्त्वाप्रत्यय इटो विकल्पनाद्यस्य विभाषेतीट्प्रतिषेधः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । जभार । हृग्रहोर्भ इति भत्वम् । आयुक्तम् । युजेर्लुङि झलो झलीति सिचो लोपः । सधस्थात् । घञर्थे कविधानमित्यधिकरणे कप्रत्ययः । सध माधस्थयोश्छंदसीति सधादेशः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । रात्री । रात्रेश्चाजसाविति ङीप् ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः