तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रित॒ः सं भ॑रन्ति ॥
तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्यः॑ । रू॒पम् । कृ॒णु॒ते॒ । द्योः । उ॒पऽस्थे॑ ।
अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाजः॑ । कृ॒ष्णम् । अ॒न्यत् । ह॒रितः॑ । सम् । भ॒र॒न्ति॒ ॥
तत्तदानीमुदयसमये मित्रस्य वरुणस्यैतदुभयोपलक्षितस्य सर्वस्य जगतोऽभिचक्ष आभिमुख्येन प्रकाशनाय द्योर्नभस उपस्थ उपस्थाने मध्ये सूर्यः सर्वस्य प्रेरकः सविता रूपं सर्वस्य निरूपकं प्रकाशकं तेजः कृणुते । करोति अपिचास्य सूर्यस्य हरितो रसहरणशीला रश्मयो हरिद्वर्णा अश्वा वानंतमवसानरहितं कृत्स्नस्य जगतो व्यापकं रुशद्दीप्यमानं श्वेतवर्णं पाजः । बलनामैतत् । बलयुक्तमतिबलस्यापि नैशस्य तमसो निवारणे समर्थमन्यत्तमसो विलक्षण तेजः सं भरंति । अहनि स्वकीयागमनेन निष्पादयंति । तथा कृष्णं कृष्णवर्णमन्यत्तमः स्वकीयापगमनेन रात्रौ । अस्य रश्मयोऽप्येवं कुर्वंति किमु वक्तव्यं तस्य महात्म्यमिति सूर्यस्य स्तुतिः ॥ अभिचक्षे । संपदादिलक्षणो भावे क्विप् कृदुत्तरपदप्रकृतिस्वरत्वम् । द्योः । ङसिङसोश्च (पा ६-१-११०) इति पूर्वरूपता । उपस्थे । घञर्थे कविधानमिति कप्रत्ययः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । पाजः । पाति रक्षतीति पाजो बलम् । पातेर्बले जुट्ट (उ ४-२०२) इत्यसुन् जुडागमश्च । छांदसो मत्वर्थीयस्य विनो लोपः ॥ ५ ॥