कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति ।
त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥
कृ॒ष्णम् । नि॒ऽयान॑म् । हर॑यः । सु॒ऽप॒र्णाः । अ॒पः । वसा॑नाः । दिव॑म् । उत् । प॒त॒न्ति॒ ।
ते । आ । अ॒व॒वृ॒त्र॒न् । सद॑नात् । ऋ॒तस्य॑ । आत् । इत् । घृ॒तेन॑ । पृ॒थि॒वी । वि । उ॒द्य॒ते॒ ॥
कृष्णंकृष्णवर्णंनियानं नियमेनगच्छन्तंमेघं हरयः उदकस्यहर्तारः सुपर्णाः शोभनपतनारश्मयः अ- पोवसानाः उदकानिवासयन्तःमेघेषु अद्भिर्मेघान्पूरयन्तइत्यर्थः अन्तर्भावितण्यर्थाद्द्विकर्मकत्वं यद्वा कृष्णंनियानंनियमनंरात्रिः देवानांहिरात्रिर्दक्षिणायनं तत्प्रतितस्मिन्वर्षकालइत्यर्थः एवंकुर्वन्तोदिवं- द्युलोकंतदाश्रितमादित्यंवोद्दिश्योत्पतन्ति ऊर्ध्वंगच्छन्ति तेरश्मयऋतस्यसदनात् उदकस्यस्थानादा- दित्यमण्डलादाववृत्रन् आवर्तन्तेअर्वाञ्चआगच्छन्ति आदित् अनन्तरमेव यदार्वागागच्छन्ति तदानी- मेवघृतेनोदकेन पृथिवीव्युद्यते विविधंक्लिद्यते कृष्णंनिरयणंरात्रिरादित्यस्य हरयः सुपर्णाहरणाआ- दित्यरश्मयइत्यादिनिरुक्तंद्रष्टव्यम् ॥ ४७ ॥