मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् ३

संहिता

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑ः ।
म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥

पदपाठः

उप॑ । नः॒ । पि॒तो॒ इति॑ । आ । च॒र॒ । शि॒वः । शि॒वाभिः॑ । ऊ॒तिऽभिः॑ ।
म॒यः॒ऽभुः । अ॒द्वि॒षे॒ण्यः । सखा॑ । सु॒ऽशेवः॑ । अद्व॑याः ॥

सायणभाष्यम्

हेपितो यत्स्त्वंशिवः मङ्गलः अतः शिवाभिः मङ्गलयुक्ताभिः ऊतिभीरक्षणैः नोस्मान् उपसमीपं आचरआगच्छ आगत्यचमयोभुः सुखस्यभावयिता अद्विषेण्यः अद्वेष्यरसः प्रियरसइत्यर्थः सखासखि- वत्प्रियकारी सुशेवः अतएवसुष्ठुसुखकरः अद्वयाः द्वयरहितः उक्तगुणएव नतु तद्विपरीतोभवेत्यर्थः अथवादृष्टान्तवादोयं सुशेवः अद्वयाः मनः कर्मविसंवादरहितः सखायथा मयोभुरद्वेष्यश्चभवति तद्वत् त्वमपिभवेत्यर्थः ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः