यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः ।
ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्य॑ः ॥
यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय । च॒ । अव॑हः ।
ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
पुरुकृत् पुरूणांकर्मणांकर्तःहेइन्द्र यस्त्वं नार्मरंनॄन् मनुष्यान् मारयतीतिनृमरः कश्चिदसुरः तस्या- पत्यंनार्मरः तं सहवसुं वसुनासहवर्ततइतिसहवसुः असुरनामैतत् एतन्नामकमसुरं निहन्तवे हन्तेस्तु- मर्थेतवेन्प्रत्ययः तादौचनितीतिगतेः प्रकृतिस्वरत्वम् निहन्तुंऊर्जयन्त्याः बलवत्याः वज्रधारायाः अपरिविष्टंमलादिभिरव्याप्तं आस्यंअद्यैवअवहन्तमसुरंप्रापयः यद्वा ऊर्जयन्त्याः पिशाचिकायाः आ- स्यंप्रापयः किमर्थं पृक्षायतवहविर्लक्षणान्नलाभाय उतापिचदासवेशायदासानां दस्यूनांवेशायविना- शायच यद्वा अस्माकमन्नलाभायदस्युविनाशायच ॥ ८ ॥