सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्य॑ः पृणन्ति ।
तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥
सम् । अ॒न्याः । यन्ति॑ । उप॑ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः॑ । पृ॒ण॒न्ति॒ ।
तम् । ऊं॒ इति॑ । शुचि॑म् । शुच॑यः । दी॒दि॒ऽवांस॑म् । अ॒पाम् । नपा॑तम् । परि॑ । त॒स्थुः॒ । आपः॑ ॥
अन्यावर्ष्याआपः संयंतिभूम्यासंगच्छन्ते अन्याश्चपूर्वंतत्रावस्थिताः उपयन्ति उपगच्छंति ताः सर्वा आपः समानं सहनद्योनदी भूताऊर्वं समुद्रमध्येवर्तमानंवडवानलंपृणन्ति प्रीणयन्ति पृणप्रीण ने तौदादिकः तमु तमेवापांनपातंशुचिंनिर्मलंदिवांसंदीप्यमानं दीदेतिश्छान्दसोदीप्तिकर्मा लिटः क्वसुः वस्वेकाजाद्घसामितिनियमादिडभावः छंदसिवेतिवक्तव्यमितिवचनात् द्विर्वचनाभावः एवं भूतं शुचयः शुद्धाआपः परितस्थुः परिवृत्यतिष्ठन्ति एषहिवैद्युताग्निरूपेणमेघेवर्तमानोस्मानजीजन दितिबुद्ध्यावडवानलरूपेणवर्तमानंतं पर्युपासतइत्यर्थः यद्वा अन्याएकधनाख्याआपः संयन्ति चात्वालोत्करयोर्मध्ये वसतीवरीभिः संगच्छन्ते अन्याःवसतीवर्याख्याआपश्चउपयंति उपगच्छन्ति ऎकमत्यंप्राप्ताभवन्ति एताश्चमिलित्वायज्ञं साधयंत्यस्तत्साध्यवृष्टिद्वारानद्योभूत्वाऊर्वंवृणंतीत्यादि समानम् एवंहिआपोवाअस्पर्धन्तवयंपूर्वयज्ञंवक्ष्यामइत्यादिकंब्राह्मणविनियोगश्चानुगृह्यते ॥ ३ ॥