काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।
न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥
काय॑मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज॑गन् । अ॒पः ।
न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒ऽमृषे॑ । नि॒ऽवर्त॑नम् । यत् । दू॒रे । सन् । इ॒ह । अभ॑वः ॥
हे अग्ने वना काननानि कायमानः कामयमानस्त्वं यद्यस्मात्कारणात्तानि विजाय मातॄरपो मातृभूता आपोऽजगन् । आगमः । गतवानसि । अप्सु प्रविष्टत्वाच्छान्तो वर्तसे तत्तस्मात्ते तव निवर्तनम् । नितरां तत्रैव वर्तनम् । तेन च विनाशो लक्ष्यते । न विनाशो न प्रमृषे । स पर्मृश्यते । न सह्यते । कुत इत्यत आह । यद्यस्मात्कारणाद्दूरे सन् अदृश्यतया वरत्मानस्त्वमिहास्मत्सम्बन्धिष्वरणिरूपेषु काष्ठेष्वभवः । मन्थनात् क्षणमात्रेणास्माकं समीपे भवसि । तस्मात्तव दूरतो वर्तनमस्मभ्यं न रोचते । अस्मिन्नर्थे यास्कः । कायमानश्चायमानः कामयमान इति वा । वनानि तव्ं यन्मातॄरपोऽगम उपश्याम्यन् । तत्ते अग्नेः प्रमृश्यते निवर्तनं दूरे यत्सन्निह भवसि जायमानः । नि. ४-१४ । इति । कायमानः । कमु कान्तौ । कमेर्णिङ् लटः शानच् । मकारलोपश्छान्दसः । अजगन् । ग्म्लृ गतावित्यस्य लङ् बहुलं छन्दसीति शपः श्लुः । हल्ङ्यादिना सिलोपः । मोनो धातोरिति नकारः । यच्छब्दयोगादनिघातः । अडागमस्वरः प्रमृषे । मृष तितिक्षायाम् । व्यत्ययेन कर्मणि तप्रत्ययः । लोपस्त आत्मनेपदेष्विति तलोपः । धातुस्वरः । अभवः । छन्दसि लुङ्ल ङ्लिट इति लडर्थे लङ् । यद्योगादनिघातः । ॥ २ ॥