हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥
हं॒सः । शु॒चि॒ऽसत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒ऽसत् । होता॑ । वे॒दि॒ऽसत् । अति॑थिः । दु॒रो॒ण॒ऽसत् ।
नृ॒ऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् । व्यो॒म॒ऽसत् । अ॒प्ऽजाः । गो॒ऽजाः । ऋ॒त॒ऽजाः । अ॒द्रि॒ऽजाः । ऋ॒तम् ॥
दशरात्रे षष्ठेऽहनि तृतीयसवने मैत्रावरुणशस्त्रे हंसः शुचिषदित्येषा । आहूय दूरोहणं रोहेद्धंसः शुचिषदिति पच्छोऽर्धर्चशः । आ. ८-२ । इति सूत्रम् । स्मार्तविनियोगमाह शौनकः । हंसः शुचिषदित्यृचा शुचीरीक्षेद्दिवाकरम् । अन्तकाले जपन्नेति ब्रह्मणः सद्म शाश्वतम् । ऋग्वि. २-१३ ॥ इति ॥
अनया सौर्यर्चा य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः । छां. उ. १-६-६ । इत्यादिश्रुत्युक्तो मण्डलाभिमानी देवोऽस्ति यश्च सर्वप्राणिचित्तरूपस्थितः परमात्मा यच्च निरस्तसमस्तौपाधिकं परं ब्रह्म तत्सर्वमेकमेवेति प्रतिपाद्यते । हंसः । हन्तिर्गत्यर्थः । सर्वत्र सर्वदा गन्ता योऽहं सोऽसावित्यादिश्रुत्युक्तप्रकारेणैकिकृत्योपास्यः परमात्ममन्त्रप्रतिपाद्य आदित्यः । स च शुचौ दीप्ते द्युलोके सीदतीति शुचिषत् । अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्यादिश्रुतेः । अनेन द्युस्थान आदित्यः प्रतिवादितः । स एव मध्यस्थानो वायुरित्याद । वसुः सर्वस्य वासयिता वायुः । स चान्तरिक्षसदन्तरिक्षसञ्चारी । अथ तस्यैव क्षितिस्थानवैदिकाग्निरूपतामाह । होता देवानामाह्वाता होमनिष्पादको वा वेदिषद्वेद्यां गार्हपत्यादिरूपेण स्थितः । अतिथिरतिथिवत्सर्वदा पूज्योऽग्निः । दुरोणसत् । दुरोणं गृहनाम । तत्र पाकादिसाधनत्वेन स्थितः । अनेन लौकिकाग्न्यात्मकत्वमुक्तम् । नृषत् । नृषु मनुष्येषु चैतन्यरूपेण सीदतिति नृषत् । अनेन परमात्मरूपत्वमुक्तम् । पुनरप्यादित्यात्मतामाह । वरसत् । वरे वरणीय मण्डले सीदतीति वरसदादित्यः । वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपतिति हि श्रूयते । ऋतं सत्यं ब्रह्म यज्ञो वा । तत्र सीदतीत्यृतसदग्निः । व्योमान्तरिक्षम् । तत्र सीदतीति व्योमसद्वायुः । इदानीमादित्यतोच्यते । अब्जा उदकेषु जातः । उदकमध्ये खल्वहं जायते । गोजा गोषु रश्मिषु जातः । ऋतं सत्यं सर्वैर्दृश्यत्वेन सत्यजातः । न ह्यसाविन्द्रदिवत्परोक्षो भवति । यद्वा । उदकेषु वैद्युतरूपेण वा वाडवरूपेण वा जातः । अद्रिजा अद्रावुदयाचले जातः । एवं महानुभाव आदित्य ऋतं सत्यमबाध्यं सर्वाधिष्थानं ब्रह्मतत्त्वम् । तद्रूपोह्यसावेव । अदित्यस्योक्तरूपत्वं हंसः शुचिषदित्येष वै हंसः शुचिषदित्यादिना ब्राह्मणे । ऐ. ब्रां. ४-२० । समाम्नातम् ॥ ५ ॥