नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः ।
स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥
नु । रो॒द॒सी॒ इति॑ । अहि॑ना । बु॒ध्न्ये॑न । स्तु॒वी॒त । दे॒वी॒ इति॑ । अप्ये॑भिः । इ॒ष्टैः ।
स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । घ॒र्मऽस्व॑रसः । न॒द्यः॑ । अप॑ । व्र॒न् ॥
हे रोदसी द्यावा पृथिव्यौ युवामहिना बुध्न्येनाहिर्बुध्न्यनमकेन देवेन सह नु क्षिप्रमप्येभिरपनीयैरिष्ट्यैः कामैर्निमित्तभूतैः स्तुवीत । स्तुवे । सनिष्यवो धनानां सम्भक्तुमिच्छन्तः सञ्चरणे सञ्चराय समुद्रमध्यगमनाय समुद्रमिव । तं यथा स्तुवन्ति तद्वत् । यस्मादेते देवा घर्मस्वरसो दीप्तध्वनयो नद्यो नदीरप व्रन् । अपवृण्वन्तीति परोक्ष इव । अथवा ते देवा नदीरपवृण्वन्त्वित्याशीः । तस्मात् स्तुव इति सम्बन्धः ॥ ६ ॥